उत्तिष्ठत जाग्रत
” उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ “
कठोपनिषदः मन्त्रोऽयं ( १/३/१४ ) मनुष्याणां श्रेयः पथप्रापणाय प्रायतः गुरुभिः मनीषिभिश्च समुक्तः ।
१३३९ बंगाब्दे आषाढमास-आर्यदर्पण-पत्रिकायाम् सद्गुरु- श्रीश्रीनिगमानन्द-सरस्वतीपादैः स्वशिष्येभ्य एवमेव प्रतिबोधनम् उपदिष्टम् । ते महात्मनः तन्त्र- ज्ञान- योग -भक्त्त्यादिषु आध्यात्मिकचिन्तनेषु साधनमार्गेण निर्विकल्पसमाधिमुख्यां परमसिद्धिं लब्ध्वा कलिपावनसद्गुरुरूपेण अवतारं गृहीतवन्तः ।
तेषां करुणार्द्रदृष्टयः संसारासक्त-शोकग्रस्त-जडमानवान् प्रतिबोधनयितुं सार्थाः समर्थाश्च आसन् । अतः कलिहतमानवानां विमोचनार्थं ते सुदृढसेतुरूपेण समुदिताः आसन् । तेरुक्तम् यत् जीवाः अमृतस्य पुत्राः । तर्हि तेषां समेषां शिष्याणां आत्मज्ञान-प्रचोदनाय ते महानुभवाः प्रयासः कृतवन्तः । स्वरूपज्ञानहीनानां मनुष्याणां त एव आदर्शभूताः ज्ञानदातारः समासन्। यद्यपि वयम् चक्षुष्मन्तः तथापि न जागरिताः। अतः अस्माकम् अन्तश्चेतनां शुद्धीकर्त्तुं अविद्यामपि निराकर्त्तुं ते सद्गुरपादाः नानाविधानि अमृतमयसुक्तानि उपदिष्टवन्तः ।
कायजं कर्मजं वाक्यजं यत् यत् पापवृन्दं अस्माभिः क्रियन्ते तेनेव ये क्लेशाः संजायन्ते तेषां प्रशमनाय मोहनिद्रापहरणं एकान्ततः काम्यं भवति । तद् हेतोः श्रेष्ठगुरुवरणं गुरुचरणारविन्दशरणमपि च श्रेयस्करं ।
श्रीमद्भगवत्गीतायाम् यत् समुक्तं –
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ४.३४॥
साधनमार्गे श्रद्धा रतिः भक्तिश्च अनुक्रमिष्यन्ति यथाविधि । एताषां प्रवृत्तीनां प्रापणार्थं गुरसेवा अनस्वीकार्याः। गुरुकृपाफलेन सर्वे दैवगुणाः हृदये संस्थापिताः स्युः। गुरुचरणाश्रितानां जाड्यं विनश्यति क्लान्तिः शाम्यति सद्ज्ञानं समुदयति च ।
सत्यजिज्ञासवः निद्रालस्यं त्यक्त्वा कृतदृढसंकल्पाः वैराग्याग्निना स्नपिता भूत्वा सद्गुरुकृपाकटाक्षैः प्रबुद्धाः सन्ति।
प्राग्लिखितं औपनिषदमन्त्रं अङ्गीकृत्य वयम् सर्वे गुरुशरणागताः स्युः । अद्य तेषां गुरुवराणां जयन्तिदिवसे अयं शपथः अस्माभिः सर्वैः कर्त्तव्यः।
शुभं भवतु !
” जयगुरु “
🙏🏻🌹🙏🏻🌹🙏🏻